Showing posts with label अन्वय. Show all posts
Showing posts with label अन्वय. Show all posts

Tuesday, 10 November 2020

विष्णुसहस्रनामान्त-फलश्रुतिः - अन्वयक्रमे

विष्णुसहस्रनामान्त-फलश्रुतिः - अन्वयक्रमे


नमो नमः
विष्णुसहस्रनामानि बहवः पठन्ति। तत्र अन्ते फलश्रुतिः अत्यन्तं रोचते मह्यम्। तानि फलानि सर्वाणि वयमनुभवामः च जीवने साक्षात्। अधुना एकमन्यत् नूतनं फलं देवेन बुद्धौ कल्पितं यत् अस्य अन्वयक्रमः योज्येत, येन संस्कृतार्थिनां लाभो भवेत्। अत्र भवतां समक्षे प्रस्तूयते इदम्। श्लोकाः यथामूलम् लेखान्ते दत्ताः। यथामति कृतमिदम्। न केनापि परिष्कारितम्। अतः यदि अन्वये क्वचित् दोषाः स्युः - अवश्यं सूचयन्तु। परिष्करिष्यामि।
--इत्थं भवदीया संस्कृतानुरागिणी
उषाराणी
--------------------------------------------------------------

॥ फलश्रुतिः ॥


भीष्म उवाच- इति कीर्तनीयस्य केशवस्य महात्मनः इदं दिव्यानां नाम्नां सहस्रम् अशेषेण प्रकीर्तितम् । यः इदं श‍ृणुयात् यः च अपि नित्यं परिकीर्तयेत् सः मानवः किञ्चित् अमुत्र इह च अशुभं न प्राप्नुयात् । ब्राह्मणः वेदान्तगः स्यात् । क्षत्रियः विजयी भवेत् । वैश्यः धनसमृद्धः स्यात् । शूद्रः सुखम् अवाप्नुयात् । धर्मार्थी धर्मं प्राप्नुयात् । अर्थार्थी च अर्थम् आप्नुयात् । कामी कामान् अवाप्नुयात् । प्रजार्थी च प्रजाम् आप्नुयात् । यः भक्तिमान् सदा उत्थाय शुचिः तद्गतमानसः एतत् वासुदेवस्य नाम्नां सहस्रं प्रकीर्तयेत् । (सः) विपुलं यशः ज्ञातिप्राधान्यम् एव च प्राप्नोति । अचलां श्रियम् आप्नोति । अनुत्तमं श्रेयः प्राप्नोति । क्वचिद् भयं न आप्नोति । वीर्यं तेजः च विन्दति । अरोगः द्युतिमान् बलरूपगुणान्वितः भवति । रोगार्तः रोगाद् मुच्यते । बद्धः बन्धनात् मुच्येत। भीतः तु भयात् मुच्येत । आपन्नः आपदः मुच्येत । पुरुषः दुर्गाणि आशु अतितरति ।

नित्यं भक्तिसमन्वितः नामसहस्रेण पुरुषोत्तमं स्तुवन् वासुदेवाश्रयः मर्त्यः वासुदेवपरायणः सर्वपापविशुद्धात्मा ब्रह्म सनातनं याति । वासुदेवभक्तानाम् अशुभं क्वचित् न विद्यते । जन्ममृत्युजराव्याधिभयं न एव उपजायते । श्रद्धाभक्तिसमन्वितः इमं स्तवम् अधीयानः आत्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः युज्येत । कृतपुण्यानां भक्तानां पुरुषोत्तमे क्रोधः, मात्सर्यं लोभः अशुभा मतिः (वा) न भवन्ति ।

द्यौः सचन्द्रार्कनक्षत्रा खं दिशः भूः महोदधिः महात्मनः वासुदेवस्य वीर्येण विधृतानि । ससुरासुरगन्धर्वं सयक्ष-उरग-राक्षसं सचराचरं जगद् इदं कृष्णस्य वशे वर्तते । इन्द्रियाणि, मनः, बुद्धिः, सत्त्वं, तेजः, बलं, धृतिः, क्षेत्रं, क्षेत्रज्ञः एव च वासुदेवात्मकानि आहुः । सर्वागमानाम् आचारः प्रथमं परिकल्पते । आचारप्रभवः धर्मः, धर्मस्य प्रभुः अच्युतः । ऋषयः, पितरः, देवाः, महाभूतानि, धातवः, जङ्गमाजङ्गमं च इदं जगत् नारायण-उद्भवम् । योगः, ज्ञानं, तथा साङ्ख्यं विद्याः, शिल्पादिकर्म च वेदाः, शास्त्राणि, विज्ञानं, जनार्दनात् एतत् सर्वम् । एकः विष्णुः महद्भूतं विश्वभुग्, अव्ययः, पृथग्भूतानि अनेकशः भूतात्मा त्रीन् लोकान् व्याप्य भुङ्क्ते । भगवतः विष्णोः स्तवं इमं व्यासेन कीर्तितम् । यः पुरुषः पठेद्, श्रेयः, सुखानि प्राप्तुं च इच्छेत् । ये विश्वेश्वरम्, अजं, देवं, जगतः प्रभुम्, अव्ययम्, पुष्कराक्षं भजन्ति ते पराभवं न यान्ति ।

अर्जुन उवाच- पद्मपत्रविशालाक्ष, पद्मनाभ, सुरोत्तम, जनार्दन, अनुरक्तानां भक्तानां त्राता भव । श्रीभगवानुवाच- पाण्डव, यः मां नामसहस्रेण स्तोतुम् इच्छति, सः अहम् एकेन श्लोकेन स्तुत एव। न संशयः । व्यास उवाच- वासुदेवस्य वासनाद् भुवनत्रयं वासितम्। वासुदेव, सर्वभूतनिवासः असि, ते नमः अस्तु । पार्वती उवाच- प्रभो, केन लघुना उपायेन विष्णोः नामसहस्रकं पण्डितैः नित्यं पठ्यते, (तत्) अहं श्रोतुम् इच्छामि । ईश्वर उवाच- मनोरमे, श्रीराम राम रामेति रामे रमे । वरानने, सहस्रनाम तत् रामनाम तुल्यम् । ब्रह्मा उवाच- अनन्ताय, सहस्रमूर्तये, सहस्रपादाक्षिशिरोरुबाहवे, सहस्रनाम्ने, पुरुषाय, शाश्वते, सहस्रकोटियुगधारिणे नमः नमः अस्तु । सञ्जय उवाच- यत्र योगेश्वरः कृष्णः, यत्र पार्थः धनुर्धरः, तत्र श्रीः विजयः, भूतिः, ध्रुवा नीतिः, मतिः मम । श्रीभगवानुवाच- अनन्याः चिन्तयन्तः ये जनाः मां पर्युपासते, तेषां नित्याभियुक्तानां योगक्षेमम् अहम् वहामि । साधूनां परित्राणाय, दुष्कृतां विनाशाय च, धर्मसंस्थापनार्थाय युगे युगे सम्भवामि । आर्ताः, विषण्णाः, शिथिलाः च, भीताः, घोरेषु व्याधिषु च वर्तमानाः, नारायणशब्दमात्रं सङ्कीर्त्य विमुक्तदुःखाः सुखिनः भवन्ति । कायेन, वाचा, मनसा, इन्द्रियैः वा, बुद्ध्या, आत्मना वा, प्रकृतेः स्वभावात् यद् यत् करोमि (तत्) सकलं परस्मै नारायणाय इति समर्पयामि । इति श्रीविष्णोः दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ॥ॐ तत् सत् ॥

(अन्वयः- उषाराणी सङ्का)

--------------------------------------------------------------
यथातथम् -श्लोकभागः-

भीष्म उवाच ---
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १॥

य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ २॥

वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ ३॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥ ४॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्गतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ ५॥

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ६॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ ७॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ ८॥

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ९॥

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १०॥

न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ ११॥

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भक्तानां पुरुषोत्तमे ॥ १३॥

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १४॥

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १५॥

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १६॥

सर्वागमानामाचारः प्रथमं परिकल्पते
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १७॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १८॥

योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ १९॥

एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २०॥

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ २१॥

विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ २२॥

न ते यान्ति पराभवम् ॐ नम इति ।
 

अर्जुन उवाच ---
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानामनुरक्तानां त्राता भव जनार्दन ॥ २३॥

श्रीभगवानुवाच ---
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोहऽमेकेन श्लोकेन स्तुत एव न संशयः ॥ २४॥

स्तुत एव न संशय ॐ नम इति ।
 

व्यास उवाच ---
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ २५॥

श्री वासुदेव नमोऽस्तुत ॐ नम इति ।
पार्वत्युवाच ---
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर्नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥ २६॥

ईश्वर उवाच ---
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥ २७॥

श्रीरामनाम वरानन ॐ नम इति ।
 

ब्रह्मोवाच ---
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते
सहस्रकोटियुगधारिणे नमः ॥ २८॥

सहस्रकोटियुगधारिणे ॐ नम इति ।

ॐ तत्सदिति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामानुशासनिके पर्वणि भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रम् ॥

सञ्जय उवाच ---
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ २९॥

श्रीभगवानुवाच ---
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ ३०॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ३१॥

आर्ताः विषण्णाः शिथिलाश्च भीताः घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥ ३२॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ ३३॥

इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् । ॐ तत् सत् ।

(https://sanskritdocuments.org/doc_vishhnu/vsahasranew.html)

Monday, 13 May 2019

सरित्सागरसंवादः

सरित्सागरसंवादः अन्वयक्रमे योजितः

 
महाभारतकथा यथातथम्

[अन्वयक्रमेण योजिताः महाभारतोपाख्यानस्य श्लोकाः, कोष्ठकेषु अर्थसहिताः, सरलावबोधनाय।]

    युधिष्ठिर उवाच-- भरतर्षभ, राजा दुर्लभं राज्यम् अनुप्राप्य अतिवृद्धस्य अमित्रस्य (=शत्रोः) (पुरतः) असाधनः (=साधनैः हीनः) कथं तिष्ठेद्? ॥१॥
    भीष्म उवाच-- भारत, अत्र अपि इमम् सरितां सागरस्य चैव संवादं च पुरातनम् इतिहासं उदाहरन्ति ॥२॥ शश्वत् सुरारिनिलयः (=दैत्यानां वासस्थानं), सरितां पतिः सागरः सर्वाः सरितः आत्मनः (=स्वस्य) जातं संशयं पप्रच्छ ॥३॥
    सागर उवाच-- “नद्यः, इह युष्माभिः (जल-)पूर्णाभिः  (महा)कायिनः, समूलशाखान् द्रुमान् (=वृक्षान्) निहतान् पश्यामि, तत्र वेतसं न (पश्यामि) ॥४॥ वेतसः अकायः च, अल्पसारः (=लघुकायः) च, वः कूलजः (=तटे जातः) च । अवज्ञया न आनीतः वा, तेन किञ्च वः (उप)कृतं वा? ॥५॥ तद् अहं सर्वासाम् एव वः मतं श्रोतुम् इच्छामि, यथा वेतसः इमानि कूलानि च हित्वा (=त्यक्त्वा) न आयाति” (इति) ॥६॥ ततः गङ्गा नदी सरितां पतिं सागरम् (प्रति) अर्थवत्, हेतुमद् (=कारणयुक्तं), ग्राहकं, उत्तमं चैव वाक्यं प्राह (=उक्तवती) ॥७॥ गङ्गोवाच-- “एते नगाः (=वृक्षाः) हि एकनिकेतनाः (=ये एकत्रैव वसन्ति) यथास्थानं तिष्ठन्ति । ते प्रातिलोम्याद् (=प्रतिकूलतायाः कारणेन) ततः स्थानं त्यजन्ति, वेतसः न ॥८॥ वेतसः वेगम् आयातं दृष्ट्वा नमति । न इतरः । स च वेगे अभ्यतिक्रान्ते (=ततः निर्गते) स्थानम् आसाद्य तिष्ठति ॥९॥ वेतसः कालज्ञः, समयज्ञः च, सदा वश्यः, न उद्धतः च, अनुलोमः, तथा स्तब्धः । तेन न अभ्येति (=अस्माभिः सहागच्छति) ॥१०॥ ओषध्यः, पादपाः, गुल्माः, ये मारुतोदकवेगेन (=वायोः जलस्य च प्रवाहवेगेन) नमन्ति (=अवनता भवन्ति), उन्नमन्ति च, ते पराभवं न यान्ति” (इति) ॥११॥
    भीष्मोवाच-- “यो हि विवृद्धस्य, बन्धविनाशने प्रभोः (=प्रबलस्य) शत्रोः पूर्वं (=प्रथमं) वेगं न सहते, क्षिप्रम् (=झटिति) एव विनश्यति ॥१२॥ यः प्राज्ञः आत्मनः, द्विषतः (=शत्रोः) च सारासारं बलं, वीर्यं जानन् विचरति, स पराभवं न याति ॥१३॥ एवम् एव यदा विद्वान् रिपुम् अतिबलं मन्येत, वैतसीं वृत्तिं संश्रयेत् (=आश्रयेत्)। एवं प्रज्ञानलक्षणम्” (इति) ॥१४॥

इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सरित्सागरसंवादे त्रयोदशाधिकशततमोऽध्यायः ॥११३॥
-------------------------------------- 
 

मूलं, श्लोकान्वयादिसहितम्-

श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सरित्सागरसंवादे त्रयोदशाधिकशततमोऽध्यायः॥११३॥
 
 युधिष्ठिर उवाच॥
राजा राज्यमनुप्राप्य दुर्लभं भरतर्षभ ।
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः ॥१॥
पदविभागः-- राजा राज्यम् अनुप्राप्य दुर्लभं भरतर्षभ । अमित्रस्य अतिवृद्धस्य कथं तिष्ठेद् असाधनः ॥१॥
अन्वयः-- भरतर्षभ, राजा दुर्लभं राज्यम् अनुप्राप्य अतिवृद्धस्य अमित्रस्य असाधनः कथं तिष्ठेद् ॥१॥
हिन्द्यर्थः-- युधिष्ठिरने पूछा- भरतश्रेष्ठ, राजा एक दुर्लभ राज्यको पाकर भी सेना और खजाना आदि साधनोंसे रहित हो तो सभी दृष्टियोंसे अत्यन्त बढेचढे हुए शत्रुके सामने कैसे टिक सकता है? ॥१॥

मूलम्--
भीष्म उवाच॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सरितां चैव संवादं सागरस्य च भारत ॥२॥
पदविभागः-- अत्र अपि उदाहरन्ति इमम् इतिहासं पुरातनम् । सरितां चैव संवादं सागरस्य च भारत ॥२॥
अन्वयः-- भारत, अत्र अपि इमम् सरितां सागरस्य चैव संवादं च पुरातनम् इतिहासं उदाहरन्ति ॥२॥
हिन्द्यर्थः-- भीष्मजीने कहा- भारत! इस विषयमें विज्ञ पुरुष सरिताओं तथा समुद्रके संवादरूप एक प्राचीन उपाख्यानका दृष्टान्त दिया करते हैं ॥२॥

मूलम्--
सुरारिनिलयः शश्वत्सागरः सरितां पतिः ।
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः ॥३॥
पदविभागः-- सुरारिनिलयः शश्वत् सागरः सरितां पतिः । पप्रच्छ सरितः सर्वाः संशयं जातम् आत्मनः ॥३॥
अन्वयः-- शश्वत् सुरारिनिलयः सरितां पतिः सागरः सर्वाः सरितः आत्मनः जातं संशयं पप्रच्छ ॥३॥
हिन्द्यर्थः-- एक समयकी बात है, दैत्योंके निवासस्थान और सरिताओंके स्वामी समुद्रने सम्पूर्ण नदियोंसे अपने मनका एक संदेह पूछा ॥३॥

मूलम्--
सागर उवाच॥
समूलशाखान् पश्यामि निहतान् कायिनो द्रुमान् ।
युष्माभिरिह पूर्णाभिर्नद्यस्तत्र न वेतसम् ॥४॥
पदविभागः-- समूल-शाखान् पश्यामि निहतान् कायिनः द्रुमान् । युष्माभिः इह पूर्णाभिः नद्यः तत्र न वेतसम् ॥४॥
अन्वयः-- नद्यः, इह युष्माभिः पूर्णाभिः कायिनः, समूल-शाखान् द्रुमान् निहतान् पश्यामि, तत्र वेतसं न (पश्यामि) ॥४॥
हिन्द्यर्थः-- समुद्रने कहा- नदियों, मैं देखता हूँ कि जब बाढ आनेके कारण तुमलोग लबालब भर जाती हो, तव विशाल-काय वृक्षोंको जडमूल और शाखाओं सहित उखाड़कर अपने प्रवाहमें बहा लाती हो; परंतु उनमें बेंतका कोई पेड़ नहीं दिखायी देता ॥४॥

मूलम्--
अकायश्चाल्पसारश्च वेतसः कूलजश्च वः ।
अवज्ञया वा नानीतः किञ्च वा तेन वः कृतम् ॥५॥
पदविभागः-- अकायः च अल्पसारः च वेतसः कूलजः च वः । अवज्ञया वा न आनीतः किञ्च वा तेन वः कृतम् ॥५॥
अन्वयः-- वेतसः- अकायः च, अल्पसारः च, वः कूलजः च । अवज्ञया न आनीतः वा, तेन किञ्च वः कृतं वा ॥५॥
हिन्द्यर्थः-- बेंतका शरीर तो नहींके बराबर बहुत पतला है । उसमें कुछ दम नहीं होता हैं और वह तुम्हारे खास किनारेपर जमता हैं; फिर भी तुम उसे न ला सकी, कया कारण है? क्या तुम अवहेलनावश उसे कभी नहीं लायीं अथवा उसने तुम्हारा कोई उपकार किया है? ॥५॥

मूलम्--
तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम् ।
यथा कूलानि चेमानि हित्वा नायाति वेतसः ॥६॥
पदविभागः-- तद् अहं श्रोतुम् इच्छामि सर्वासाम् एव वः मतम् । यथा कूलानि च इमानि हित्वा न आयाति वेतसः ॥६॥
अन्वयः-- तद् अहं सर्वासाम् एव वः मतं श्रोतुम् इच्छामि, यथा वेतसः इमानि कूलानि च हित्वा न आयाति ॥६॥
हिन्द्यर्थः-- इस विषयमें तुम सब लोगोंका विचार मैं सुनना चाहता हूँ, कया कारण है कि बेंतका वृक्ष तुम्हारे इन तटोंको छोडकर नहीं आता है?॥६॥

मूलम्--
ततः प्राह नदी गङ्गा वाक्यमुत्तममर्थवत् ।
हेतुमद् ग्राहकं चैव सागरं सरितां पतिम् ॥७॥
पदविभागः-- ततः प्राह नदी गङ्गा वाक्यम् उत्तमम् अर्थवत् । हेतुमद् ग्राहकं चैव सागरं सरितां पतिम् ॥७॥
अन्वयः-- ततः गङ्गा नदी सरितां पतिं सागरम् (प्रति) अर्थवत् हेतुमद् ग्राहकं उत्तमं वाक्यम् चैव प्राह । ॥७॥
हिन्द्यर्थः-- इस प्रकार प्रश्न होनपर गङ्गानदीने सरिताओंके स्वामी समुद्रसे यह उत्तम अर्थपूर्ण, युक्तियुक्त तथा मनको ग्रहण करने बाली बात कही॥७॥

मूलम्--
गङ्गोवाच॥
तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः ।
ते त्यजन्ति ततः स्थानं प्रातिलोम्यान्न वेतसः ॥८॥
पदविभागः-- तिष्ठन्ति एते यथास्थानं नगाः हि एकनिकेतनाः । ते त्यजन्ति ततः स्थानं प्रातिलोम्यात् न वेतसः ॥८॥
अन्वयः-- एते नगाः हि एकनिकेतनाः यथास्थानं तिष्ठन्ति । ते प्रातिलोम्याद् ततः स्थानं त्यजन्ति, वेतसः न ॥८॥
हिन्द्यर्थः-- गङ्गा बोली- नदीश्वर! ये वृक्ष अपने-अपने स्थानपर अकड़कर खड़े रहते हैं, हमारे प्रवाहके सामने मस्तक नहीं झुकाते । इस प्रतिकूल बर्तावके कारण ही उन्हें नष्ट होकर अपना स्थान छोड़ना पड़ता है। परंतु बेंत ऐसा नहीं हैं॥८॥

मूलम्--
वेतसो वेगमायातं दृष्ट्वा नमति नेतरः ।
स च वेगेऽभ्यतिक्रान्ते स्थानमासाद्य तिष्ठति ॥९॥
पदविभागः-- वेतसः वेगम् आयातं दृष्ट्वा नमति न इतरः । सः च वेगे अभ्यतिक्रान्ते स्थानम् आसाद्य तिष्ठति ॥९॥
अन्वयः-- वेतसः वेगम् आयातं दृष्ट्वा नमति । न इतरः । स च वेगे अभ्यतिक्रान्ते स्थानम् आसाद्य तिष्ठति ॥९॥
हिन्द्यर्थः-- बेंत नदीके वेगको आते देख झुक जाता है, पर दूसरे वृक्ष ऐसा नहीं करते; अतः वह सरिताओंका वेग शान्त होने- पर पुनः अपने स्थानमें ही स्थित हो जाता है॥९॥

मूलम्--
कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्धतः ।
अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः ॥१०॥
पदविभागः-- कालज्ञः समयज्ञः च सदा वश्यः च न उद्धतः । अनुलोमः तथा स्तब्धः तेन न अभ्येति वेतसः ॥१०॥
अन्वयः-- वेतसः कालज्ञः, समयज्ञः च, सदा वश्यः, न उद्धतः च, अनुलोमः, तथा स्तब्धः- तेन न अभ्येति ॥१०॥
हिन्द्यर्थः-- बेंत समयको पहचानता है, उसके अनुसार बर्ताव करना जानता हैं, सदा हमारे वशमें रहता हैं, कभी उद्दण्डता नहीं दिखाता और अनुकूल बना रहता हैं । उसमें कभी अकड़ नहीं आती है; इसीलिये उसे स्थान छोडकर यहाँ नहीं आना पड़ता हैं॥१०॥

मूलम्--
मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च ।
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम् ॥११॥
पदविभागः-- मारुत-उदक-वेगेन ये नमन्ति उन्नमन्ति च । ओषध्यः पादपाः गुल्माः न ते यान्ति पराभवम् ॥११॥
अन्वयः-- ओषध्यः, पादपाः, गुल्माः, ये मारुतोदकवेगेन नमन्ति, उन्नमन्ति च, ते पराभवं न यान्ति ॥११॥
हिन्द्यर्थः-- जो पौधे, वृक्ष या लता-गुल्म हवा और पानीके वेगसे झुक जाते तथा वेग शान्त होनेपर सिर उठाते उनका कभी पराभव नहीं होता॥११॥

मूलम्--
भीष्मोवाच॥
यो हि शत्रोर्विवृद्धस्य प्रभोर्बन्धविनाशने ।
पूर्वं न सहते वेगं क्षिप्रमेव विनश्यति ॥१२॥
पदविभागः-- यः हि शत्रोः विवृद्धस्य प्रभोः बन्धविनाशने । पूर्वं न सहते वेगं क्षिप्रम् एव विनश्यति ॥१२॥
अन्वयः-- यो हि विवृद्धस्य, बन्धविनाशने प्रभोः शत्रोः पूर्वं वेगं न सहते, क्षिप्रम् एव विनश्यति ॥१२॥
हिन्द्यर्थः-- भीष्मजी कहते हैं- युधिष्ठिर! इसी प्रकार जो राजा बलमें बढ़ेचढ़े तथा बन्धनमें डालने और विनाश करनेमें समर्थ शत्रुके प्रथम वेगको सिर झुकाकर नहीं सह लेता है, वह शीघ्र ही नष्ट हो जाता है॥१२॥

मूलम्--
सारासारं बलं वीर्यमात्मनो द्विषतश्च यः ।
जानन् विचरति प्राज्ञो न स याति पराभवम् ॥१३॥
पदविभागः-- सार-असारं बलं वीर्यम् आत्मनः द्विषतः च यः । जानन् विचरति प्राज्ञः न सः याति पराभवम् ॥१३॥
अन्वयः-- यः प्राज्ञः आत्मनः द्विषतः च सारासारं बलं वीर्यं जानन् विचरति, सः पराभवं न याति ॥१३॥
हिन्द्यर्थः-- जो बुद्धिमान् राजा अपने तथा शत्रुके सार-असार, बल तथा पराक्रमको जानकर उसके अनुसार बर्ताव करता है, उसकी कभी पराजय नहीं होती है॥१३॥

मूलम्--
एवमेव यदा विद्वान् मन्यतेऽतिबलं रिपुम् ।
संश्रयेद्वैतसीं वृत्तिमेवं प्रज्ञानलक्षणम् ॥१४॥
पदविभागः-- एवम् एव यदा विद्वान् मन्येत अतिबलं रिपुम् । संश्रयेद् वैतसीं वृत्तिम् एवं प्रज्ञान-लक्षणम् ॥१४॥
अन्वयः-- एवम् एव यदा विद्वान् रिपुम् अतिबलं मन्येत, वैतसीं वृत्तिं संश्रयेत्। एवं प्रज्ञान-लक्षणम् ॥१४॥
हिन्द्यर्थः-- इस प्रकार विद्वान् राजा जब शत्रुके बलको अपनेसे अधिक समझे, तब बेंतका ही ढंग अपना ले (अर्थात् उसके सामने नतमस्तक हो जाय) । यही बुद्धिमानीका लक्षण है॥१४॥


इति श्रीमहाभारते शान्तिपर्वणि राजधर्मानुशासनपर्वणि सरित्सागरसंवादे त्रयोदशाधिकशततमोऽध्यायः॥११३॥
 
[टङ्कितमूलं अस्मात् प्राप्तम्--
https://sanskritdocuments.org/mirrors/mahabharata/unic/mbh12_sa.html ]

-------------------------------------- 

हिन्द्यनुवादः--


(शान्तिपर्व के राजधर्मानुशासनपर्व में सरित्सागरसंवाद नाम का ११३ अध्याय)
शक्तिशाली शत्रुके सामने चेतकी भाँति नतमस्तक होनेका उपदेश-सरिताओं और समुद्रका संवाद
    युधिष्ठिरने पूछा- भरतश्रेष्ठ, राजा एक दुर्लभ राज्यको पाकर भी सेना और खजाना आदि साधनोंसे रहित हो तो सभी दृष्टियोंसे अत्यन्त बढेचढे हुए शत्रुके सामने कैसे टिक सकता है? ॥१॥
भीष्मजीने कहा- भारत! इस विषयमें विज्ञ पुरुष सरिताओं तथा समुद्रके संवादरूप एक प्राचीन उपाख्यानका दृष्टान्त दिया करते हैं ॥२॥ एक समयकी बात है, दैत्योंके निवासस्थान और सरिताओंके स्वामी समुद्रने सम्पूर्ण नदियोंसे अपने मनका एक संदेह पूछा ॥३॥
    समुद्रने कहा- नदियों, मैं देखता हूँ कि जब बाढ आनेके कारण तुमलोग लबालब भर जाती हो, तव विशाल-काय वृक्षोंको जडमूल और शाखाओं सहित उखाड़कर अपने प्रवाहमें बहा लाती हो; परंतु उनमें बेंतका कोई पेड़ नहीं दिखायी देता ॥४॥ बेंतका शरीर तो नहींके बराबर बहुत पतला है । उसमें कुछ दम नहीं होता हैं और वह तुम्हारे खास किनारेपर जमता हैं; फिर भी तुम उसे न ला सकी, कया कारण है? क्या तुम अवहेलनावश उसे कभी नहीं लायीं अथवा उसने तुम्हारा कोई उपकार किया है? ॥५॥ इस विषयमें तुम सब लोगोंका विचार मैं सुनना चाहता हूँ, कया कारण है कि बेंतका वृक्ष तुम्हारे इन तटोंको छोडकर नहीं आता है?॥६॥
    इस प्रकार प्रश्न होनपर गङ्गानदीने सरिताओंके स्वामी समुद्रसे यह उत्तम अर्थपूर्ण, युक्तियुक्त तथा मनको ग्रहण करने बाली बात कही॥७॥
    गङ्गा बोली- नदीश्वर! ये वृक्ष अपने-अपने स्थानपर अकड़कर खड़े रहते हैं, हमारे प्रवाहके सामने मस्तक नहीं झुकाते । इस प्रतिकूल बर्तावके कारण ही उन्हें नष्ट होकर अपना स्थान छोड़ना पड़ता है। परंतु बेंत ऐसा नहीं हैं॥८॥ बेंत नदीके वेगको आते देख झुक जाता है, पर दूसरे वृक्ष ऐसा नहीं करते; अतः वह सरिताओंका वेग शान्त होनेपर पुनः अपने स्थानमें ही स्थित हो जाता है॥९॥ बेंत समयको पहचानता है, उसके अनुसार बर्ताव करना जानता हैं, सदा हमारे वशमें रहता हैं, कभी उद्दण्डता नहीं दिखाता और अनुकूल बना रहता हैं । उसमें कभी अकड़ नहीं आती है; इसीलिये उसे स्थान छोडकर यहाँ नहीं आना पड़ता हैं॥१०॥ जो पौधे, वृक्ष या लता-गुल्म हवा और पानीके वेगसे झुक जाते तथा वेग शान्त होनेपर सिर उठाते उनका कभी पराभव नहीं होता॥११॥
    भीष्मजी कहते हैं- युधिष्ठिर! इसी प्रकार जो राजा बलमें बढ़ेचढ़े तथा बन्धनमें डालने और विनाश करनेमें समर्थ शत्रुके प्रथम वेगको सिर झुकाकर नहीं सह लेता है, वह शीघ्र ही नष्ट हो जाता है॥१२॥ जो बुद्धिमान् राजा अपने तथा शत्रुके सार-असार, बल तथा पराक्रमको जानकर उसके अनुसार बर्ताव करता है, उसकी कभी पराजय नहीं होती है॥१३॥ इस प्रकार विद्वान् राजा जब शत्रुके बलको अपनेसे अधिक समझे, तब बेंतका ही ढंग अपना ले (अर्थात् उसके सामने नतमस्तक हो जाय) । यही बुद्धिमानीका लक्षण है॥१४॥
 
(गीताप्रेस्-गोरखपुरतः सधन्यवादम्)

Thursday, 1 March 2018

पतिव्रतोपाख्यानम् -- महाभारतात्


महाभारते वनपर्वणि एषा कथा वर्तते। पद्यवृत्तेभ्यः पदान् विभज्य, अन्वयक्रमेण विन्यस्य प्रथ्यते अत्र समेषां संस्कृतजिज्ञासूनां उपयोगाय।

विमर्शैः उपदेशैश्च अनुगृह्णन्तु इति प्रार्थये।
------------

पतिव्रतोपाख्यानम् १९६- १९७

            भारतकश्चित् द्विजाति-प्रवरः वेद-अध्यायी तपोधनः तपस्वी धर्मशीलः च कौशिकः नाम (आसीत्)॥ द्विजसत्तमः साङ्ग-उपनिषदान् वेदान् अधीते। सः कस्मिंश्चित् वृक्षमूले वेदान् उच्चारयन् स्थितः॥ वृक्षस्य उपरिष्टात् च बलाका संन्यलीयत। तदा तया ब्राह्मणस्य उपरि पुरीषम् उत्सृष्टम्॥ ततः द्विजः क्रुद्धः ताम् अवेक्ष्य समपध्यायत। क्रोध-अभिभूतेन भृशं सा बलाका निरीक्षिता॥ विप्रेण अपध्याता च वसुधा-तले न्यपतत्। गतसत्त्वाम् अचेतनाम् पतितां बलाकां दृष्ट्वा द्विजः कारुण्याद् अभिसन्तप्तः तां पर्यशोचत॥ राग-द्वेष-बलात्कृतः अकार्यं कृतवान् अस्मि” इति उक्त्वा विद्वान् बहुशः ग्रामं भैक्षाय संश्रितः॥
            भरतर्षभग्रामे शुचीनि कुलानि प्रचरन् सः तत् कुलं प्रविष्टः यत्र तु पूर्वं चरितवान्॥ देहिइति याचमानः वै ततः स्त्रिया ‘तिष्ठ’ इत्युक्तः। यावत् कुटुम्बिनी तु भाजनस्य शौचं  कुरुते॥ भरतसत्तमराजन्एतस्मिन् अन्तरे भृशम् क्षुधा-सम्पीडितः तस्याः भर्ता सहसा प्रविष्टः॥ सा साध्वी तु पतिं दृष्ट्वा तम् ब्राह्मणं व्यपहाय, भर्त्रे पाद्यम्, आचमनीयं च तथा आसनम् ददौ॥ अथ प्रह्व(नम्र)-असितेक्षणा भर्तारम् आहारेण भक्ष्यैः च अपि, सुमधुरैः वाक्यैः च तथा पर्यचरत्॥ युधिष्ठिरसा तु नित्यं भर्तुः उच्छिष्टं भुञ्जते। पतिं दैवतं च मेने। भर्तुः चित्त-अनुसारिणी (च आसीत्)॥ न अपि कर्मणा न मनसा न अत्यश्नात् न च अपिबत्। तं सर्वभाव-उपगता पति-शुश्रूषणे रता॥ (सा) साधु-आचारा शुचिः दक्षा कुटुम्बस्य हितैषिणी। सा सततं भर्तुः च अपि यत् हितं, तत् अनुवर्तते॥ नित्यं देवता-अतिथि-भृत्यानां श्वश्रू-श्वशुरयोः शुश्रूषण-परा। तथा सततं संयत-इन्द्रिया॥
            अथ शुभेक्षणा सा तदा भैक्ष-काङ्क्षिणम् ब्राह्मणं संस्थितं दृष्ट्वा पति-शुश्रूषां कुर्वती सस्मार॥ भरतसत्तमतदा सा साध्वी व्रीडिता अभवत्। यशस्विनी विप्राय भिक्षाम् आदाय निर्जगाम॥
            ब्राह्मण उवाच भवतिवराङ्गनेकिम् इदं त्वं मां तिष्ठ इति उक्त्वा उपरोधं कृतवती न विसर्जितवती असि॥
           मनुष्येन्द्र, ब्राह्मणं क्रोध-सन्तप्तंतेजसा ज्वलन्तम् इव दृष्ट्वा साध्वी सान्त्वपूर्वं वचः अब्रवीत्॥ विप्रक्षन्तुम् अर्हसि। मे भर्ता मे महत् दैवतम्। सः च अपि क्षुधितः श्रान्तः प्राप्तः मया शुश्रूषितः
            ब्राह्मण उवाच– ब्राह्मणाः न गरीयांसःते पतिः गरीयान् कृतः। गृहस्थ-धर्मे वर्तन्ती ब्राह्मणान् अवमन्यसे॥ इन्द्रः अपि एषां प्रणमते। पुनः भुवि मानुषाः किम्अवलिप्ते न जानीषे। त्वया वृद्धानां न श्रुतम्॥ ब्राह्मणाः हि अग्निसदृशाः पृथिवीम् अपि दहेयुः
            स्त्र्युवाच अहं विप्रान् देवैः तुल्यान् मनस्विनः न अवजानामि। विप्रअनघइमं मे अपराधम् क्षन्तुम् अर्हसि॥ विप्राणां तेजःधीमतां महाभाग्यं च जानामि। क्रोधात् अपेयः सागरः हि लवण-उदकः कृतः॥ तथा एव दीप्त-तपसां मुनीनां भावितात्मनाम्, येषां क्रोध-अग्निः अद्य अपि दण्डके न उपशाम्यति, (तच्च जानामि)॥ ब्राह्मणानां परिभवात् क्रूरः महासुरः दुरात्मवान् वातापिः च अगस्त्यम् ऋषिम् आसाद्य जीर्णः॥ बहवः च अपि ब्रह्म-वादिनाम् प्रभावाः श्रूयन्ते।
            ब्रह्मन्महात्मनां क्रोधः सुविपुलः प्रसादः च॥ ब्रह्मन्अनघअस्मिन् तु अतिक्रमे मे क्षन्तुम् अर्हसि। द्विजपति-शुश्रूषया यः धर्मः सः मे रोचते॥ सर्वेषु दैवतेषु अपि मे भर्ता परं दैवतं। द्विजोत्तमतस्य अहं अविशेषेण धर्मं कुर्याम्॥ ब्राह्मणपत्युः शुश्रूषायाः यादृशं फलं पश्य। त्वया बलाका हि रोषात् दग्धा, तत् मम विदितम्॥
            द्विजोत्तमक्रोधः मनुष्याणां शरीरस्थः शत्रुः। यः क्रोध-मोहौ त्यजति तं देवाः ब्राह्मणं विदुः॥ य इह सत्यानि वदेद्गुरुं सन्तोषयेत च। हिंसितः च न हिंसेत, देवाः तं ब्राह्मणं विदुः॥ जितेन्द्रियः धर्मपरः स्वाध्याय-निरतः शुचिः, यस्य काम-क्रोधौ वशेदेवाः तं ब्राह्मणं विदुः॥ यस्य च धर्मज्ञस्य मनस्विनः लोकः आत्मसमःसर्वधर्मेषु च रतः, देवाः तं ब्राह्मणं विदुः॥ यः अध्यापयेद् अधीयीत यजेत् वा याजयीत वा अपि, यथाशक्ति दद्यात् वा, देवाः तं ब्राह्मणं विदुः॥ ब्रह्मचारी च वेदान्यः द्विज-उत्तमः अधीयीत, स्वाध्याये च अप्रमत्तः वै देवाः तं ब्राह्मणं विदुः॥ यत् ब्राह्मणानां कुशलं तत् एषां परिकीर्तयेत्। तथा सत्यं व्याहरतां अनृते मनः न रमते॥ द्विजसत्तम, ब्राह्मणस्य धनं तु स्वाध्यायं दमम् आर्जवम् इन्द्रियाणां शाश्वतं निग्रहं च आहुः॥ धर्मविदः जनाः सत्य-आर्जवे परं धर्मम् आहुः॥ शाश्वतः धर्मः दुर्ज्ञेयः। स तु सत्ये प्रतिष्ठितः। ‘श्रुतिप्रमाणः धर्मः स्याद्’ इति वृद्ध-अनुशासनम्॥ द्विजोत्तमबहुधा धर्मः सूक्ष्मः दृश्यते एव। भवान् अपि च धर्मज्ञः, स्वाध्याय-निरतः, शुचिः॥ भगवन्न तु तत्त्वेन धर्मान् वेत्सि इति मे मतिः॥ द्विजोत्तममाता-पितृभ्यां शुश्रूषुः, सत्यवादी जितेन्द्रियः, मिथिलायां वसन् व्याधः (कश्चित् अस्ति)। स ते धर्मान् प्रवक्ष्यति॥ यथाकामं तत्र गच्छस्व। भद्रं ते॥ अनिन्दितमे अत्युक्तम् अपि सर्वं क्षन्तुम् अर्हसि। ये धर्मविदुषः जनाः स्त्रियः हि सर्वेषां अवध्याः॥
            ब्राह्मण उवाच “शोभनेतव प्रीतः अस्मि। भद्रं ते। क्रोधः च गतः। त्वया हि उपालम्भः उक्तः, मम निःश्रेयसं परम्॥ शोभनेस्वस्ति ते अस्तु। गमिष्यामि, साधयिष्यामि॥ नर-सत्तमतया विसृष्टः निर्गम्य स कौशिकः द्विजः आत्मानं विनिन्दन् स्वम् एव भवनं ययौ॥

Monday, 17 April 2017

1. मोहमुद्गरः

नमांसि
भजगोविन्दस्तोत्रमिति सुप्रसिद्धं द्वादशपञ्जरिका अथवा मोहमुद्गर इति आचार्य-शङ्करकृतिः अस्ति। तस्याः पद्यानाम् अन्वयः कृतः। मूलरहितम् अन्वयं सकृत् प्रषितुमिच्छामि, यत्र वाक्यार्थमनुसृत्य पदक्रमः भवति। पठित्वा स्वानुभवः उच्यताम्। सुकरं, सरलं च भावानुगमः भवतीति, उपयुक्तोयमिति मन्ये।


1. मूढमते, गोविन्दं भज, गोविन्दं भज, गोविन्दं भज। काले सन्निहिते सम्प्राप्ते डुकृञ्करणे नहि नहि रक्षति।
2. मूढ, धनागमतृष्णां जहीहि। सद्बुद्धिं कुरु। मनसि वितृष्णां (कुरु)। निजकर्मोपात्तं यत् वित्तं लभसे तेन चित्तं विनोदय।
3. नारी-स्तन-भर-नाभी-देशं दृष्ट्वा मोहावेशम् मा गाः। एतत् मांस-वसादि-विकारं (इति), मनसि वारं वारं विचिन्तय।
4. (यथा) नलिनी-दल-गत-जलम् अति-तरलं, तद्वत् जीवितम् अतिशय-चपलम्। लोकं समस्तं व्याधि-अभिमान-ग्रस्तं, शोकहतं च विद्धि।
5. यावत् वित्त-उपार्जन-सक्तः (भवसि) तावत् निज-परिवारो रक्तः। पश्चात् जर्जर-देहे जीवति, कोऽपि गेहे वार्तां न पृच्छति।
6. यावत् पवनो देहे निवसति, तावत् गेहे कुशलं पृच्छति। देहापाये वायौ गतवति, भार्याः तस्मिन् काये बिभ्यति।
7. बालः तावत् क्रीडा-सक्तः। तरुणः तावत् तरुणी-सक्तः। वृद्धः तावत् चिन्ता-सक्तः। कोऽपि परमे ब्रह्मणि न सक्तः (भवति)।
8. ते कान्ता का? ते पुत्रः कः? अयं संसारः अतीव विचित्रः। हे भ्रातः, (अतः) त्वं कस्य, कः, कुत आयातः (इति) तत्त्वं तत् इह चिन्तय।
9. सत्सङ्गत्वे (सति) निस्सङ्गत्वं, निस्सङ्गत्वे (सति) निर्मोहत्वं, निर्मोहत्वे (सति) निश्चलतत्त्वं, निश्चलतत्त्वे (सति) जीवन्मुक्तिः (भवति)।
10. वयसि गते (सति) कः कामविकारः? नीरे शुष्के (सति) कः कासारः? वित्ते क्षीणे (सति) कः परिवारः? तत्त्वे ज्ञाते (सति) कः संसारः?
11. धन-जन-यौवन-गर्वं मा कुरु। कालः निमेषात् सर्वं हरति। त्वं माया-मयम् इदम् अखिलं हित्वा, ब्रह्मपदं विदित्वा प्रविश।
12. दिन-यामिन्यौ सायं प्रातः, शिशिर-वसन्तौ च पुनः आयातः। कालः क्रीडति। आयुः गच्छति। तदपि आशावायुः न मुञ्चति।
13. द्वादश-मञ्जरिकाभिः अशेषः, विद्या-निपुणैः श्रीमत् शङ्कर-भगवत्-चरणैः वैयाकरणस्य एषः उपदेशः कथितः अभूत् ।

सुलक्षणाचरितम् (श्रीस्कन्दपुराणेकाशीखण्डे सप्तचत्वारिंशोऽध्यायः )

सुलक्षणाचरितम् - मूलग्रन्थस्य केवलान्वयः, कथायां कठिनपदानाम् अर्थान् ज्ञापयितुं सार्थान्वयः, विशेषाध्ययनाय सश्लोकपदविभागान्वयः च (भाषाशिक्षण...