महाभारते वनपर्वणि एषा कथा वर्तते। पद्यवृत्तेभ्यः पदान् विभज्य, अन्वयक्रमेण विन्यस्य प्रथ्यते अत्र समेषां संस्कृतजिज्ञासूनां उपयोगाय।
विमर्शैः उपदेशैश्च अनुगृह्णन्तु इति प्रार्थये।
------------
पतिव्रतोपाख्यानम् १९६- १९७
भारत, कश्चित् द्विजाति-प्रवरः वेद-अध्यायी तपोधनः
तपस्वी धर्मशीलः च कौशिकः नाम (आसीत्)॥ द्विजसत्तमः साङ्ग-उपनिषदान् वेदान् अधीते।
सः कस्मिंश्चित् वृक्षमूले वेदान् उच्चारयन् स्थितः॥ वृक्षस्य उपरिष्टात् च बलाका
संन्यलीयत। तदा तया ब्राह्मणस्य उपरि पुरीषम् उत्सृष्टम्॥ ततः द्विजः क्रुद्धः
ताम् अवेक्ष्य समपध्यायत। क्रोध-अभिभूतेन भृशं सा बलाका निरीक्षिता॥ विप्रेण
अपध्याता च वसुधा-तले न्यपतत्। गतसत्त्वाम् अचेतनाम् पतितां बलाकां दृष्ट्वा
द्विजः कारुण्याद् अभिसन्तप्तः तां पर्यशोचत॥ “राग-द्वेष-बलात्कृतः
अकार्यं कृतवान् अस्मि” इति उक्त्वा विद्वान् बहुशः ग्रामं भैक्षाय
संश्रितः॥
भरतर्षभ, ग्रामे शुचीनि कुलानि प्रचरन् सः तत् कुलं
प्रविष्टः यत्र तु पूर्वं चरितवान्॥ ‘देहि’
इति याचमानः वै ततः स्त्रिया ‘तिष्ठ’ इत्युक्तः। यावत् कुटुम्बिनी
तु भाजनस्य शौचं कुरुते॥ भरतसत्तम, राजन्, एतस्मिन्
अन्तरे भृशम् क्षुधा-सम्पीडितः तस्याः भर्ता सहसा प्रविष्टः॥ सा साध्वी तु पतिं
दृष्ट्वा तम् ब्राह्मणं व्यपहाय, भर्त्रे पाद्यम्, आचमनीयं च
तथा आसनम् ददौ॥ अथ प्रह्व(नम्र)-असितेक्षणा भर्तारम् आहारेण भक्ष्यैः च अपि, सुमधुरैः
वाक्यैः च तथा पर्यचरत्॥ युधिष्ठिर, सा तु नित्यं भर्तुः
उच्छिष्टं भुञ्जते। पतिं दैवतं च मेने। भर्तुः चित्त-अनुसारिणी (च आसीत्)॥ न अपि
कर्मणा न मनसा न अत्यश्नात् न च अपिबत्। तं सर्वभाव-उपगता पति-शुश्रूषणे रता॥ (सा)
साधु-आचारा शुचिः दक्षा कुटुम्बस्य हितैषिणी। सा सततं भर्तुः च अपि यत् हितं, तत्
अनुवर्तते॥ नित्यं देवता-अतिथि-भृत्यानां श्वश्रू-श्वशुरयोः शुश्रूषण-परा। तथा
सततं संयत-इन्द्रिया॥
अथ शुभेक्षणा सा तदा भैक्ष-काङ्क्षिणम् ब्राह्मणं संस्थितं दृष्ट्वा
पति-शुश्रूषां कुर्वती सस्मार॥ भरतसत्तम, तदा सा साध्वी व्रीडिता अभवत्।
यशस्विनी विप्राय भिक्षाम् आदाय निर्जगाम॥
ब्राह्मण उवाच– भवति, वराङ्गने, किम् इदं
त्वं मां तिष्ठ इति उक्त्वा उपरोधं कृतवती न विसर्जितवती असि॥
मनुष्येन्द्र, ब्राह्मणं क्रोध-सन्तप्तं, तेजसा
ज्वलन्तम् इव दृष्ट्वा साध्वी सान्त्वपूर्वं वचः अब्रवीत्॥ “विप्र, क्षन्तुम्
अर्हसि। मे भर्ता मे महत् दैवतम्। सः च अपि क्षुधितः श्रान्तः प्राप्तः मया
शुश्रूषितः”॥
ब्राह्मण उवाच– “ब्राह्मणाः न गरीयांसः, ते पतिः
गरीयान् कृतः। गृहस्थ-धर्मे वर्तन्ती ब्राह्मणान् अवमन्यसे॥ इन्द्रः अपि एषां प्रणमते।
पुनः भुवि मानुषाः किम्? अवलिप्ते न जानीषे। त्वया वृद्धानां न श्रुतम्॥
ब्राह्मणाः हि अग्निसदृशाः पृथिवीम् अपि दहेयुः”॥
स्त्र्युवाच– अहं
विप्रान् देवैः तुल्यान् मनस्विनः न अवजानामि। विप्र, अनघ, इमं मे
अपराधम् क्षन्तुम् अर्हसि॥ विप्राणां तेजः, धीमतां महाभाग्यं च
जानामि। क्रोधात् अपेयः सागरः हि लवण-उदकः कृतः॥ तथा एव दीप्त-तपसां मुनीनां
भावितात्मनाम्, येषां क्रोध-अग्निः अद्य अपि दण्डके न
उपशाम्यति, (तच्च जानामि)॥ ब्राह्मणानां परिभवात् क्रूरः
महासुरः दुरात्मवान् वातापिः च अगस्त्यम् ऋषिम् आसाद्य जीर्णः॥ बहवः च अपि
ब्रह्म-वादिनाम् प्रभावाः श्रूयन्ते।
ब्रह्मन्, महात्मनां क्रोधः सुविपुलः प्रसादः च॥ ब्रह्मन्, अनघ, अस्मिन् तु
अतिक्रमे मे क्षन्तुम् अर्हसि। द्विज, पति-शुश्रूषया यः धर्मः सः
मे रोचते॥ सर्वेषु दैवतेषु अपि मे भर्ता परं दैवतं। द्विजोत्तम, तस्य अहं
अविशेषेण धर्मं कुर्याम्॥ ब्राह्मण, पत्युः शुश्रूषायाः यादृशं
फलं पश्य। त्वया बलाका हि रोषात् दग्धा, तत् मम विदितम्॥
द्विजोत्तम, क्रोधः
मनुष्याणां शरीरस्थः शत्रुः। यः क्रोध-मोहौ त्यजति तं देवाः ब्राह्मणं विदुः॥ य इह
सत्यानि वदेद्, गुरुं
सन्तोषयेत च। हिंसितः च न हिंसेत, देवाः तं ब्राह्मणं विदुः॥ जितेन्द्रियः धर्मपरः
स्वाध्याय-निरतः शुचिः, यस्य काम-क्रोधौ वशे, देवाः तं
ब्राह्मणं विदुः॥ यस्य च धर्मज्ञस्य मनस्विनः लोकः आत्मसमः, सर्वधर्मेषु
च रतः, देवाः तं ब्राह्मणं विदुः॥ यः अध्यापयेद् अधीयीत यजेत् वा याजयीत वा अपि, यथाशक्ति दद्यात् वा, देवाः तं ब्राह्मणं विदुः॥
ब्रह्मचारी च वेदान्यः द्विज-उत्तमः अधीयीत, स्वाध्याये च
अप्रमत्तः वै देवाः तं ब्राह्मणं विदुः॥ यत् ब्राह्मणानां कुशलं तत् एषां
परिकीर्तयेत्। तथा सत्यं व्याहरतां अनृते मनः न रमते॥ द्विजसत्तम,
ब्राह्मणस्य धनं तु स्वाध्यायं दमम् आर्जवम् इन्द्रियाणां शाश्वतं निग्रहं च आहुः॥
धर्मविदः जनाः सत्य-आर्जवे परं धर्मम् आहुः॥ शाश्वतः धर्मः दुर्ज्ञेयः। स तु सत्ये
प्रतिष्ठितः। ‘श्रुतिप्रमाणः धर्मः स्याद्’ इति वृद्ध-अनुशासनम्॥ द्विजोत्तम, बहुधा
धर्मः सूक्ष्मः दृश्यते एव। भवान् अपि च धर्मज्ञः, स्वाध्याय-निरतः, शुचिः॥ भगवन्, न तु
तत्त्वेन धर्मान् वेत्सि इति मे मतिः॥ द्विजोत्तम, माता-पितृभ्यां शुश्रूषुः,
सत्यवादी जितेन्द्रियः, मिथिलायां वसन् व्याधः
(कश्चित् अस्ति)। स ते धर्मान् प्रवक्ष्यति॥ यथाकामं तत्र गच्छस्व। भद्रं ते॥
अनिन्दित, मे अत्युक्तम् अपि सर्वं क्षन्तुम् अर्हसि। ये
धर्मविदुषः जनाः स्त्रियः हि सर्वेषां अवध्याः॥
ब्राह्मण उवाच– “शोभने, तव प्रीतः अस्मि। भद्रं ते। क्रोधः च गतः। त्वया हि उपालम्भः उक्तः, मम
निःश्रेयसं परम्॥ शोभने, स्वस्ति
ते अस्तु। गमिष्यामि, साधयिष्यामि”॥ नर-सत्तम, तया
विसृष्टः निर्गम्य स कौशिकः द्विजः आत्मानं विनिन्दन् स्वम् एव भवनं ययौ॥
No comments:
Post a Comment